________________
राजोवाच
-
श्रीमद्भगवद्भादरायणप्रणीतम्
श्रीमद्भागवतम्
नवमस्कन्धः
॥ अथ प्रथमोऽध्यायः ॥
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे
वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥
॥ अथ श्रीभागवतटिप्पणी सत्यधर्मयतिकृता प्रारभ्यते ॥
गुरुर्मे नवमं स्कन्धं विवरीतुं समुद्यतम् । पारयेदन्तरायातानन्तरायांत्स वारयन् ॥
त्वदुक्तार्थो न विस्मृतो मयेति दिदर्शयिषुः श्रुतमनूद्य मनूनामन्ववायचरितस्य हरिचरित- सम्मिश्रिततया तद्भक्तिहेतुत्वात्तद्वद वदावदेति वदति ।। राजेति । मे मया तत्र तेषु मन्वन्तरेषु वीर्याणि तत्साध्यानि कृतानि कर्माणि कृतान्यनुष्ठितानीत्यावृत्त्याऽन्वयः ॥ १ ॥
|
॥ अथ श्रीमद्भगवतटिप्पणी छलारी शेषाचार्यविरचिता प्रारभ्यते ॥
अस्मिन् स्कन्धे ‘वैष्णवानां तु चरितं विष्णूद्रेकाय कथ्यते' इत्युक्तेः विष्णूत्कर्षज्ञानार्थं पुण्यश्लोकराजवंशो निरूप्यते । तत्र कतिपयैरध्यायैः सूर्यवंशः कतिपयैरध्यायैः सोमवंशश्चानुवर्ण्यते । प्रथमं तावदुक्तानुवादपूर्वकं वैवस्वतमनुवंशं राजा शुकं पृच्छति || मन्वन्तराणीत्यादिना ॥ उक्तानि । अष्टमस्कन्ध इति शेषः । तत्र चतुर्दशमन्वन्तरेषु । कृतानि हरेर्वीर्याणि च मे मया श्रुतानीत्यन्वयः ।। १ ।
योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः ।
ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥